संस्कृत साहित्ये "पर्यावरणं वेदविज्ञानञ्च" एकं समिक्षात्मकं अध्ययनम् ।


संस्कृतवाङ्मये प्रकृतेः प्राणिनश्च शाश्वतिको सम्बन्धः दृश्यते । प्रकृतिरेव पर्यावरणमिति क्रान्तदर्शिनां ऋषीणामभिमतम् यदस्मान् परितः आवृणोति येनं वयं परितः आवृतास्तत् पर्यावरणम् । पृथ्विजल-तेजोवायुराकाशादयः औषधयो वनस्पतयः जलचरखेचरादयः समस्तनिसर्गजातपदार्थाः अस्माकमावरकाः रक्षाकवचभूताः । एतेषां पदार्थानां समष्टिरेव पर्यावरणम् । पृथ्विजलतेजोवाय्वादयः सामान्यतो भूता एव सन्ति । भूत इत्यस्यार्थः चैतन्यो जीव । महद्विशेषणविशिष्टत्वादेते मानवापेक्षया उत्कृष्टाः । यथा हि श्रुतिरपि-पृथ्वीदेवता वातो देवता अग्निर्देवता... भूधिष्ठा हि देवताः[1]

एवं विधायाः प्रकृतेः ध्यायं ध्यायं च गौरवं स्मारं स्मारं च वैशिष्ट्यं सर्वत्र शान्तिं सौहार्दं च कामयमानो ऋषिः ब्रुते-धौः शान्तिरन्तरिक्षं शान्तिरापः शान्तिरोषधयः शान्ति .....।[2]

त्रयो लोकास्त्रयो देवाः – पृथ्व्यन्तरिक्षधुनामभिः प्रसिद्धाः त्रयो लोकाः तेषां च अग्निवाय्वादित्याः त्रयो देवाः इति वेदविज्ञानस्य द्रुष्टिः। अत्रोल्लिखितः देवशब्दः न काल्पनिकः न चाश्रद्धेयः अपितु दवो नाम प्राणशक्ति एषारनेकधा तथापि निखिल निसर्गसर्गः प्राणशक्ति समन्वित इत्यवधारणीयः।

वेद विज्ञानदृशा माता भूमिः, अग्निप्राणसमन्वितत्वात । एवमेव आदित्यः धुलोकस्य प्राणभुतः वायुश्चान्तरिक्षस्य । इत्थमग्निवाय्वादित्यादयो त्रयः देवाः । एते अपि वस्तुत अग्नितत्वस्यैव विविधाः स्वरुपाः अर्थात् अग्नेः धनरुपोः अग्निः तरलरुपो वायुः विरलरुपश्चादित्यः।

मातृवत् वन्दनीया धारित्री-पर्यावरणघटकेषु पंच महाभूतेषु पृथ्वी स्थूलतरा। "भवन्ति भूतान्यस्मिन्" इति व्युत्पत्या प्राणिनो यत्र भवन्ति असौ भूमिः । अत्र भूमावेव जलतत्वसाहाय्येन जायमानैरन्नादिभिः प्राणिनः आत्मानं पोषयन्ति । अत एव ऋक्संहिता पृथिव्यां मातृभावं स्थापयन्नुदीरयति-उपसर्प मातरं भूमिम् । अथर्वसंहितायामपि पृथिव्याः मानवानाञ्च मातृपुत्रभावमनुमोदयन् प्रतिपादयति ऋषिः नमो मात्रे पृथिव्यै, माता भूमिः पुत्रोऽहं पृथिव्याः[3] पादस्पर्शं क्षमस्व मे ।

आपस्तत्वम्-जलतत्वं पृथ्वीतो सूक्ष्मं शक्तिप्रवर्धकं पृथिव्यां जीवनाय प्राणतुल्यम् । अतः एतस्यालौकिकतां पवित्रतां पुण्यदातृतां सर्वव्यवहारोपयोगितां चावधार्य ब्रह्मणा जलतत्वस्य रचना प्राथम्येन विहिता- "अप एव ससर्जादौ" । जलमाप इति सामान्यतो पर्याया एव । किं तावदापस्तत्वमिति जिज्ञासायां श्रुतिरत्र – आपो ह वा इदमग्रे सलिलमेवास... ।[4] सोऽपोऽसृजत । सेदं सर्वमाप्नोयदिदं किञ्च । यदाप्नोतस्मादापः । सर्वमाप्नोद्यदिदं यदवृणोतस्माद्वा[5] ऋग्वेदसंहिताया नासदीयसूक्ते तु पूर्वमेवास्ति वर्णितम्-अम्भः किमासीद् गहनं गभीरम् ।[6] जलतत्वसाहाय्येन पृथ्वीतत्वं वृक्षलतावनस्पतिः वनस्पतिः पोषयति । एवं प्रवर्धिताः भूतत्वरुपाः पादपाः वनस्पतयश्च वायौ समुत्पन्नाम् दोषान् मार्जयन्ति यतो हि वनस्पतय प्राणिभ्यः जीवनौषधिरुपाः । अतएवैतेषां वृक्षपादपादीनां संरक्षणाय परिपोषणाय च प्रार्थयति श्रुतिः –

आपओषधीरुतनोऽवन्तु द्यौर्वना गिरयो वृक्ष केशाः । वृक्षारोपण वैशिष्ट्यं नास्ति केनापि तिरोहितम् । अपुत्रस्य पुत्रत्वं कुर्वते इह पादपाः ।
दशकूपसमा वापी दशवापी समोहृदः ।
दशहृदसमः पुत्रो दशपुत्रसमो दुमः ।।[7]

अपां संघातो विलयनञ्च तेजः संयोगादिति[8] दार्शनिकाः वेदविज्ञानविज्ञाश्च स्वीकुर्वन्ति । अन्यान्यपि शास्त्राणि एवमेवाङ्गिकुर्वन्ति अन्तर्मनसा-अग्निर्वा इतो वृष्टिमुदीरयति मरुतः सृष्टां नयन्ति । यदा खलु वा असावादित्यो न्यङरश्मिभिः पर्यावर्तते, अथ वर्षति[9] एवमेव मनुस्मृतावपि –
अग्नौ प्रास्ताहुतिः सम्यगादित्यादुपतिष्ठते ।
आदित्याज्जायते वृष्टिः वृष्टेरन्नं ततः प्रजाः ।।[10]

वरुणो जलाभिमानी देवता । इत्थं यदि जलं पृथ्वीमिमां व्यावस्थापयति तदा सूक्ष्मशक्तिसम्पन्नो वरुणः जलतत्वं व्यवस्थापयति । कस्यचिदपि पदार्थस्य मालिनीकरणदशायां तदधिष्ठातृदेवता ततो दूरं प्रयाति इदं पदार्थ मलिनीकरणमेव प्रदुषणम् । जलजन्तुषु जलं निर्मलीकर्तुं शोधयितुं वा प्रकृतिप्रदत्ता शक्तिः निहिता भवति । गङ्गा वाहनो मकरः यमुनावाहनो कच्छपश्च पुराणेषु सुप्रथितः वर्तते ।

यद्यपि प्रकृतिः प्रतिवर्षमेकवारं जलं निर्मलीकरोति किन्तु नवमासपर्यन्तं जलशोधनं तु जलचरैरेव क्रियते । श्रीमद्भगवद्गीतायाः दशमेऽध्याये 'वरुणोयादसामहम्'[11] इत्यत्र निहितः यादृस शब्दः जलजलचरयोश्चोभयोरपि प्रत्यायकः शंकराचार्यः यादृसशब्दं जलदेवता अर्थे नीलकण्ठमधुसूदनश्रीधरस्वामी च जलचरार्थे स्वीकुर्वते । यतः गीता जलचरेषु वरुणस्य श्रेष्ठत्वं साधयति अत एतेन सिद्धयति जलजलचरयोरन्योन्यः सम्बन्धः ।

अग्निसंयोगादेव जलतत्वं वाष्पीकरण प्रक्रिययामेघरुपे परिणमते । वेदेषु शुचिक्रन्दः, शुचिजन्मा, शुचिजिह्व सदृशनामानि अग्नितत्वस्य पावनतां भास्वरतां च प्रथयन्ति एतेन सिद्धयति यत् तैजसतत्वं एव कालचक्रस्य नियन्ता । एष एव निसर्गसर्गस्यात्मा-सूर्य आत्मा जगतः तस्थुषश्च ।

पञ्चमहाभूतेषु अग्निः वायुः आकाशः क्रमशः सूक्ष्मः सूक्ष्मतरः सूक्ष्मतमश्च । अतः पृथिव्याः जलतत्वस्य च वैकृतदशायामेतेषु सूक्ष्मतत्वेष्वपि संसर्गतो दोषा आयान्तीति सिद्ध एव । एष्वपि वायुस्तत्वं-रसगन्ध-विरहितं-तथापि तत्वविशेषसंसर्गेणायमपि दूषितः भवतीति सुस्पष्ट एव । यया प्राणिनः प्राणवन्तः इत्यर्धावल्या वायुस्तत्वं खलु प्राणिनां जीवनादायकमौषधिरुपम् । अतएव शिवं कामयते आधमर्ण्यं च वहति ऋषिः -
आ वात वाहि भेषजं निवातं वाहि यदरपः ।
त्वं हि विश्व भेषजो देवानां दूत ईयते ।।[12]

मघु वाता ऋतायते मधु क्षरन्ति सिन्धवः । एवमेवादिकाव्ये वाल्मीकिरामायणे वायोर्महत्वं लोके तस्यानिवार्यतां समर्थयन् ब्रवीति ऋषीः –
अशरीरः शरीरेषु वायुश्चरति पालयन् ।
शरीरं हि विना वायुं समतां याति दारुभिः ।।
वायुर्प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् ।
वायुना सम्परित्यक्तं न सुखं विन्दते जगत् ।।[13]

पञ्चमहाभूतेषु आकाशमपि गण्यते । आकाशस्य वैशिष्ट्यं शब्दगुणकम्-शब्दगुणकमाकाशम् ।[14] ध्वनिप्रदूषणस्य कीदृशः प्रभावः आकाशे भवति, तेन प्रकृतिः कथमुद्विग्ना भवतीति रामायणे कविः सङ्केतयति –
अभिगीतमिदं गीतं सर्वगीतिषुकोविदौ ।
आयुष्यं पुष्टिजननं सर्वश्रृतिमनोहरम् ।।
हलादयत् सर्वगात्राणि मनांसि हृदयानि च ।
श्रोत्राश्रयसुखं गेयं तद्बभौ जनसंसदि ।।[15-16]

विश्वव्यवस्था निर्वाहको यज्ञः –

विश्वव्यवस्थाया आधारो यज्ञः । यज्ञो नाम आदानप्रदानात्मकं कर्म-ददाति प्रतिगृह्णाति । एतेनादानप्रदानेन समुत्पन्नः अपूर्वो भाव एव यज्ञः । अग्नौ सोमाहुतिः दीयते इति प्रदानम् । अग्निः सोममात्मसात् करोति इत्यादानम् । अयमग्नो सोमाहुतिरुपो यज्ञः सर्वदा सर्वत्र च प्रचलन्नस्ति । अतएव सम्पूर्णो विश्वः यज्ञरुपात्मकः । प्रकृत्या सञ्चाल्यमानेऽस्मिन् यज्ञे यदायत्र चास्माभिः परिवर्तनं क्रियते तदा तत्र च प्रकृत्या दण्डिताः भवामो वयम् ।

अस्माकमियं धारणा वर्तते यत् दानेन हानिरुपजायते । वेदः समुपदिशति यत् परिमितपदार्थतो किञ्चिन्निगृहीते सति तत्र न्यूनता भवति किन्तु पूर्णपदार्थतो पूर्णे निगृहीते सत्यपि तत्रपूर्णता एव दृग्गोचरी भवति नापूर्णता - 'पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते' ।[17]

यदन्नं दैनिकजीवने गृह्णामो वयम् तत्राग्नेः वायोरादित्यस्य च योगदानं भवति । अग्निस्तत्र दधितत्वं वायुः घृतत्वं आदित्यश्च मधुतत्वं प्रदाय तमन्नं पोषयति वर्धयति च । कृत्रिमोपायैः समयात् पूर्वं स्वरुपनिर्माणेन तस्मिन्नन्ने पार्थिवपदार्थस्य मात्रा समधिका वायोरादित्यस्य च मात्रा स्वल्पा भवति । परिणामतः तत्र घृततत्वमधुतत्वयोः न्यूनता । घृततत्वस्य न्यूनतायां सत्यां न तत्र स्निग्धाता मधुतत्वस्य चाल्पीभां न तत्र माधुर्यम् । इत्थं यद्याहारे नास्ति स्निग्धता माधुर्यञ्च तदा अस्माकं व्यवहारे कथं स्निग्धता मधुरता ? परिणामतः स्निग्धमधुरा रुक्षतां अनुदिनं वर्धते ।

अत्र लोके यैः पदार्थैः सन्तुष्टिमनुभवामो वयम् ते पदार्थाः वेदेषु अन्नः अन्नादः प्रजाः पशुः कीर्तिः ब्रह्मवर्चसं नामभिः प्रथिताः सन्ति । अत्रान्नान्नादयोः सम्बन्धः भूपिण्डतः पार्थिवमण्डलतः प्रजायापशोश्चसम्बन्धः चन्द्रपिण्डतः चन्द्रमण्डलतः ब्रह्मवर्चसः कीर्तेश्च सम्बन्धः सूर्यपिण्डतः सौरमण्डलतः । इत्थमस्माकं सर्वाः अपि कामनाः पर्यावरणाधीनाः सन्ति । अतः पर्यावरणस्य प्रदूषणं मानवजीवनस्य प्रदूषणमिति सुस्पष्टम् ।[18]

अद्यत्वे सर्वत्र प्रदूषणं सर्वेषु क्षेत्रेषु च विकृतिः दृश्यते परिणामतः सर्वत्राशान्तिरतएव नास्ति कुत्रचिदपि सुखम्-'अशान्तस्य कुतः सुखम्' । अतः तेषां साक्षात्कृतधर्मणां ऋषिमहर्षीणामुपदेशाः व्यवहाराश्च मननीयाः आचरणीयाश्च येन भूमण्डलमिदं पुनरपि प्रदूषणरहितं स्वच्छं निर्मलं स्यादिति।

सन्दर्भाः

  1. 1. तैत्तिरीयसंहिता
  2. 2. यजुः संहिता । 36/17 ।
  3. 3. अथर्वसंहिता 12/1/12 ।
  4. 4. शतपथब्राह्मणम् 11/1/6/1 ।
  5. 5. शतपथब्राह्मणम् 6/1/1 ।
  6. 6. ऋग्वेदः 10/129/1 ।
  7. 7. पद्मपुराणम् । 144 ।
  8. 8. वैशेषिकसूत्रम् ।
  9. 9. तैत्तिरीयसंहिता । 2/4/10 ।
  10. 10. मनुस्मृतिः । 3/76 ।
  11. 11. श्रीमद्भगवद्गीता 10/29 ।
  12. 12. ऋग्वेदः । 10/137/23 ।
  13. 13. वाल्मीकिरामायणे, उत्तरकाण्डम् । 35/60-61 ।
  14. 14. तर्कसंग्रहः ।
  15. 15. वाल्मीकिरामायणे, सुन्दरकाण्डम् । 42/32 ।
  16. 16. वाल्मीकिरामायणे, बालकाण्डम् । 4/27-28,34 ।
  17. 17. ईशोपनिषद् ।
  18. 18. वेदविद्याप्रवेशिका ।

डो. जोषी देवेन्द्रकुमारः नवनीतलालः । निवासस्थानम् – कर्णावतीनगरम् । डाह्यालालपार्क सोसायटी, भवन क्रमांकः 6, मोटेराग्रामः कर्णावती (गुजरात) भ्रमणभाष क्रमांकः – 9879831524 Email – devendrajoshi2009@gmail.com