Download this page in

।। शब्दशक्तयः ।।

अस्ति शब्देषु शक्तिः । तया शक्त्यैव शब्दः स्वाभीष्टमर्थं द्योतयति । यदि शब्देषु शक्तिर्न स्यात् तर्हि कृतेऽपि घोरे प्रयत्नेऽर्थबोधो न स्यात् । अतएव भर्तृहरिणा प्रोच्यते –
विषयत्वमनापन्नैः शब्दैर्नार्थः प्रकाश्यते ।
न सत्तयैव तेऽर्थानामगृहीताः प्रकाशकाः ।।

विषयत्वं प्राप्ता एव शब्दा अर्थबोघनक्षमाः । एतदेव महाभाष्येनिर्दिश्यते –
शब्द उपलब्धोऽर्थ प्रत्याययति न सत्तामात्रेण ।

शब्दशक्तिप्रकाशिकायां जगदीशः प्रतिपादयति –
वाक्यभावमनाप्तस्य सार्थकस्यावबोधतः ।
सम्पद्यते शाब्दबोधो न तन्मात्रस्य बोधतः ।।

का नाम शक्तिरिति जिज्ञासायां नागेशेनोच्यते –
शब्दार्थयोस्तादात्म्यमेव शक्तिः ।

वाक्यपदीयेऽर्थाभिव्यक्तौ प्राणस्य बुद्धेश्च महत्त्वं प्रतिपाद्यते यद् द्वयोः साहाय्येन शब्दशक्तिर्विवर्तते । सा च भेदं प्राप्नोति –
तस्य प्राणे च या शक्तिर्या च बुद्धौ व्यवस्थिता ।
विवर्तमाना स्थानेषु सैषा भेदं प्रपद्यते ।।

शब्दः प्राणाधिष्ठानो बुद्धयधिष्ठानश्च । द्वाभ्यां प्राणबुद्धिशक्तिभ्याम् अभिव्यक्तोऽर्थं प्रत्याययति ।
गदाधारभट्टो व्युत्पत्तिवादे गङ्गेशश्च तत्त्वचिन्तामणौ शब्दखण्डे शक्तिं विस्तरेण विवेचयतः । वृत्तेः शक्तेर्वा लक्षणं तत्र क्रियते –इदं पदमिममर्थं बोधयेत्, अस्मात् शब्दादयमर्थो बोद्धव्यः, एवं प्रकारः संकेतः शक्तिः । नागेशः पदपदार्थयोः संबन्धविशेषं शक्तिं मनुते । सा च वाच्य-वाचकरुपा शक्तिः । पद-पदार्थयोरभेदज्ञानेन शक्तिग्रहः । पदगतशक्तिं संकेतो बोधयति । अतः संकेतः शक्तिर्मन्यते । शक्तिरेवार्थबोधनसाधिका । शक्तिग्रहश्च वाक्येन भवति । वाक्यलक्षणं विश्वनाथेनोच्यते –
वाक्यं स्याद् योग्यताकांक्षासक्तियुक्तः पदोच्चयः ।

1. योग्यता, परस्परसंबन्धक्षमतारूपा, 2. आकांक्षा, श्रोतुर्जिज्ञासारूपा, 3. आसत्तिः बुद्धेरविच्छेदः, एतद्गुणत्रययुक्तः पदसमूहो वाक्यम् । एवं योग्यताकांक्षासतियुक्तानां पदानां समूहो वाक्यम् । पदं च तेन लक्ष्यते –
वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः ।

शब्दार्थयोः स्वरुपं विवेचयता मम्मटेन प्रतिपाद्यते यत् शब्दः त्रिविधः – वाच्यो लक्ष्यो व्यङ्ग्यश्चेति ।

शब्दस्य तिस्रः शक्तयः – अभिधा, लक्षणा, व्यञ्जना चेति । वाचकेन शब्देन वाच्योऽर्थोऽभिधाशक्त्या बोध्यते । लक्षकेन शब्देन लक्ष्योऽर्थो लक्षणाशक्त्या बोध्यते । व्यञ्जकेन शब्देन व्यङ्ग्योऽर्थो व्यञ्जनाशक्त्या व्यज्यते । एवं काव्यशास्त्रज्ञैः तिस्रः शक्तयो मन्यन्ते ।

वाच्योऽर्थोऽभिधया बोध्यो लक्षणया मतः ।
व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्रः शब्दस्य शक्तयः ।।
अभिधा – अभिधाशक्तिः साक्षात् संकेतितमर्थं बोधयति । स च संकेतः जातौ गुणे क्रियायां यद्दृच्छाशब्देषु च गृह्यते । उक्तं च महाभाष्ये –
चतुष्टयी शब्दानां प्रवृत्तिः, जातिशब्दा गुणशब्दाः क्रियाशब्दा यद्दृच्छा शब्दाश्चेति ।

अभिधाशक्तिरपि त्रिविधा – रुढिः, यौगिको योगरूढिश्च । केचन शब्दा रुढाः, केचन यौगिकाः, केचन योगरुढाः ।
शक्तिस्त्रिधा – रुढिर्योगो योगरूढिश्च ।
लक्षणा –लक्षणाशक्तेर्लक्षणमुच्यते विश्वनाथेन –
मुख्यार्थबाधे तद्युक्तो ययाऽन्योऽर्थः प्रतीयते ।
रुढेः प्रयोजनाद् वासौ लक्षणा शक्तिरर्पिता ।।

लक्षणायां तत्त्वत्रयम् आवश्यकम् – 1. मुख्यार्थस्य बाधः स्यात्, 2. मुख्यार्थसंबद्धोऽर्थः स्वीक्रियेत, 3. रुढिः प्रयोजनविशेषो वा तत्र कारणं स्यात् । यथा – कर्मणि कुशलः, कलिङ्गः साहसिको वा रुढेरुदाहरणम् । अत्र कुशलशब्दो दक्षे, कलिङ्गशब्दश्च कलिङ्गदेशजे रुढः । गङ्गायां घोषः इत्यत्र प्रयोजनवती लक्षणा । अत्र गङ्गाशब्दः स्वार्थं जलप्रवाहरुपम् अर्तं परित्यज्य गङ्गातीरं बोघयति ।

सा च लक्षणा द्विविधा – अजहत्स्वार्था, लक्षण जहत्स्वार्था च । यत्र स्वार्थसिद्धये पराक्षेपो भवति, आत्मनश्चापि उपादानं भवति, तत्रोपादानलक्षणा । इयमेव अजहत्स्वार्था इत्यपि उच्यते । रुढौ उपादानलक्षणा यथा – श्वेतो धावति । अत्र श्वेतशब्दः श्वेतगुणत्वविशिष्टम् अश्वं बोधयति । अत्र रुढिः कारणम् । प्रयोजनवती उपादानलक्षणा यथा – कुन्ताः प्रविशन्ति, यष्टयः प्रविशन्ति ।

अत्र कुन्तादिशब्देन कुन्तादिधारिणः पुरुषा लक्ष्यन्ते । अत्र स्वार्थग्रहणाद् उपादानलक्षणा । कुन्तादिशब्दैर्भयजनकत्वादिकं प्रयोजनम्, तेन प्रयोजनवती ।

यत्र स्वकीयोऽर्थः सर्वथा त्यज्यते, तत्र लक्षणलक्षणा ।
अर्पणं स्वस्य वाक्यार्थे परस्यान्वयसिद्धये ।
उपलक्षणहेतुत्वादेषा लक्षणलक्षणा ।।
इयमेव जहत्स्वार्थाऽप्युच्यते । यथा –
उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम् ।
विदधदीदृशमेव सदा सखे सुखितमास्व ततः शरदां शतम् ।।

अपकारिणं प्रति उपकारदिप्रतिपादनात् मुख्यार्थबाधः, अपकारतिशयादिरुपो विपरीतोऽर्थोऽत्र गृह्यते ।
एवं चतुर्विधलक्षणाया अपि द्वौ भेदौ – सारोपा, साध्यवसाना च । यत्र विषयोऽनिगीर्णोऽन्येन सह तादात्म्यं स्थापयति, तत्र सारोपा लक्षणा । यत्र च विषयो निगीर्णः तादात्म्यरुपो वा विषयिणा भवति तत्र साध्यवसाना लक्षणा । यथा – गौर्वाहीकः । अत्र वाहीकदेशस्थपुरुषे गोत्वं पशुत्वं मूर्खत्वं वा लक्ष्यते । अत्र पुरुषे गोत्वारोपात् सारोपा लक्षणा । इयमेव रुपकालंकारस्य बीजम् ।

यत्र विषयो विषयिणा निगीर्यते एकात्मतां वा गच्छति, तत्र साध्यवसाना लक्षणा । यथा – गौरयम्, गौर्जल्पति वा । अत्र गोशब्देन वाहीकदेशस्थः पुरुषो लक्ष्यते । तस्य अनुल्लेखात् साध्यवसाना लक्षणा ।

एवम् अष्टभेदाया लक्षणायाः पुनर्द्वौ भेदौ – शुद्धा, गौणी च । यत्र सादृश्यभिन्नकारणेन लक्षणा, सा शुद्धा । या च सादृश्यमूलाः सा गौणी । यथा –आयुर्घुतम्, श्वेतो धावति, कर्मणि कुशलः, कुन्ताः प्रविशन्ति, इत्यत्र सादृश्येतरसबन्धमूला लक्षणा, अतः शुद्धा । यत्र च सादृश्यमूला सा गौणी । यथा – पुरुषः, सिंहः, गौर्वाहीकः, जौर्जल्पति, तौलानि हेमन्ते सुखानि, राजा गौडेन्द्रं कण्टकं शोधयति, अत्र सादृश्यमूलत्वाद् गौणी लक्षणा । एतासां विस्तरेण विश्वनाथेन लक्षणाया अशीतिभेदाः प्रतिपादिताः –
तदेवं लक्षणाभेदाश्चत्वारिंशन्मता बुधैः ।
पदवाक्यगतत्वेन प्रत्येकं ता अपि द्विधा ।।

व्यञ्जना– अभिधालक्षणाशक्त्योः कार्येऽवसिते, यया अन्योऽर्थो बोध्यते सा वृत्तिर्व्यञ्जना नाम । व्यञ्जना निगूढमर्थं बोधयति । यथा – गङ्गायां घोषः, इत्यत्र लक्षणया गङ्गातीरबोधः, शीतत्वपावनत्वदिरुपोऽर्थो नाभिधया न च लक्षणाऽवगन्तुं पार्यते । तं गूढमर्थं व्यञ्जनाशक्तिरेव बोधयति ।
व्यञ्जनाशक्तिर्द्विविधा – अभिधामूला, लक्षणामूला च । यत्रानेकार्थः शब्दः संयोगवियोगादिकारणेन एकत्रार्थे नियन्त्रिते सति अन्यमर्थं बोधयति सा अभिधामूला व्यञ्जना । यथा –
भद्रात्मनो दुरधिरोहतनोर्विशाल
वंशोन्नतेः कृतशिलीमुखसंग्रहस्य ।

यस्यानुपप्लुतगतेः परवारणस्य
वानाम्बुसेकसुभगः सततं करोऽभूत् ।।

अत्र श्लेषाश्रयेण राज-स्तुतिरूपार्थे बोधिते हस्तिरुपोऽन्योऽर्थोऽपि व्यञ्जनया बोध्यते ।
यत्र लक्ष्यार्थमादाय तदन्यत् किञ्चिद् बोध्यते सा लक्षणामूला व्यञ्जना । यथा गङ्गायां घोषः, इत्यत्र लक्ष्यार्थातिरिक्तः शीतत्वपावनत्वातिशयादिरर्थो बोध्यते ।

यत्र लक्ष्यार्थमादाय तदन्यत् किञ्चिद् बोध्यते सा लक्षणामूला व्यञ्जना । यथा गङ्गायां घोषः, इत्यत्र लक्ष्यार्थातिरिक्तः शीतत्वपावनत्वातिशयादिरर्थो बोध्यते ।
अभिधामूलाव्यञ्जना द्विविधा – शाब्दी आर्थी च । यत्र शब्दमूला सा शाब्दी, यत्रार्थमूला सा आर्थी । शाब्द्या व्यञ्जनाया उदाहरणम् – गङ्गायां घोषः । आर्थी च वक्तृबोद्धव्यादीनां वैशिष्ट्येन अन्यमर्थं बोधयति । यथा –
कालो मधुः कुपित एष च पुष्पधन्वा
धीरा वहन्ति रतिखेदहराः समीराः ।

केलीवनीयमपि वञ्जुलकुञ्जमञ्जु-
र्दूरे पतिः कथय किं करणीयमद्य ।।

अत्र दूरे पतिः. इत्यादिना प्रच्छन्नकामुकस्त्वया प्रेष्यतामिति सखीं प्रति कयाचिद् व्यज्यते ।
निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो
नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः ।
मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे
वापीं स्नामुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ।।

इत्यत्र वापीं स्नातुम्. इत्यादिना तदन्तिकमेव रन्तुं गतासीति विपरीतलक्षणया व्यज्यते ।
मम्मटो व्यङ्ग्यमूलां व्यञ्जनामपि स्वीकरोति ।
सर्वेषां प्रायशोऽर्थानां व्यञ्जकत्वमपीष्यते ।।

व्यङ्ग्यमूला व्यञ्जना यथा –
पश्य निश्चलनिष्पन्दा बिसिनीपत्रे राजते बलाका ।
निर्मलमरकतभाजन-परिस्थिता शंखशुक्तिरिव ।।

निर्जनत्वाद् एतद् संकेतस्थानमिति कयाचित् कंचित् प्रति उच्यते । एवं शब्दशक्तिर्वपश्चिद्भिः साधु निरुप्यते ।