स्वामि विवेकानंदस्य शिक्षण विषयक विचाराः, वर्तमान शिक्षण समस्याः उपायाश्च ।


वैदिक कालतः आवर्तमानं भारतीय शिक्षाया मुख्यो हेतु वर्तते यत् –
शिक्षणं प्रकाशस्य तादृशं तेजसः किरणं वर्तते यत् येन जीवनस्य विभिन्न क्षेत्रेषु सत्य पथ दर्शनं भवेत् अनेन प्रकारेण शिक्षण द्वारा मानवः विकासम्प्राप्य स्वजीवन लक्ष्यम्प्राप्नुयात् । तस्मादेव स्वामि विवेकानंदेन प्रोक्तं यत् किं नाम शिक्षणम् ? किं पुस्तकाभ्यासः ? न । तर्हि किं विधि ज्ञानम् ? न । तेषां द्रष्ट्या शिक्षणमर्थात् –
"येन शिक्षणेन ईच्छाशक्तेः प्रवाहो वृद्धिम्प्राप्नुयात्, फलदायी च भवेत् तदेव शिक्षणम् ।"

"एज्यकेशन इज ध मेनीकेस्टेशन ओफ ध परफेक्शन ओलरेडी इन मेन" अर्थात् –
"मानवान्तर्निहित पूर्णतायाः प्रकटीकरणमेव शिक्षणम् ।"

शिक्षणम् अर्थात् –
केवल सूचनायाः युक्तः न, न च देशविदेशानां सामान्य ज्ञानं शिक्षणं (GK) सामान्यज्ञानः । किन्तु मानवतायाः निर्माणम् अन्ते च स्वस्वरुपप्राप्तिः ते च स्पष्टं प्रतिपादयति यत् – अनेकविध पुस्तकज्ञानापेक्षया पञ्चसप्त विचाराणामेव जीवने चरितार्थत्वङ्गिक्रियते चेत् युस्मासु विशेष ज्ञानमस्ति इति मन्तव्यम् ।

अग्रे च प्रोक्तम् –
"यथा खरश्चन्दन भारवाही भारस्य वेत्ता न तु चन्दनस्य"
खर चन्दनस्य सुरभित्वं न जानाति केवलं भारमेव वहति तथैव सूचना संचय मेव शिक्षणं चेत् पुस्तकालयाः प्रहर्षयः ज्ञानकोषाश्च ऋषयः उच्यन्ते ।

यदिकोऽपि काचन परीक्षोत्तीर्णो व्याख्यान समर्थो एव शिक्षाप्राप्तः इति मन्येत चेत तद् मिथ्याज्ञानम् । जीवन संघर्षे स्थिरतायै यद् शिक्षणं सहाय्यं न करोति तद् शिक्षणं शिक्षण शब्द योग्यं नास्ति । यत् शिक्षणं चारित्र्य, बल, परोपकार भावनाभयत्वं न ददाति तद् शिक्षणमेव नास्ति ।

।। वर्तमान शिक्षण समस्याः ।।

भारतीय शिक्षण विकासे आङ्ग्लजनानां हस्तक्षेपकारणादेवाधुना शिक्षणं समस्या भूतं अभवत् । प्राचीनकाले बहवः अल्पाः समस्याः आसन् मध्यकाले वृद्धिः, ब्रिटिश शासनेऽत्यन्ता वृद्धिः जाता । वर्तमान कालिक स्वतन्त्रभारते शिक्षणसमस्याः विस्तृताः जाताः । पाठ्यक्रमः, शिक्षापध्धतिः, परीक्षाप्रणाली, शिक्षकावदशाः, अपव्ययः, स्थगितता, शिक्षणस्य नियत स्वरुपम् अनुशासनस्य च समस्याः मुख्याः वरिवृत्यन्ते । भारतीय शिक्षणस्योनत्त्यै समस्या समाधान अतीवावश्यकम् । तस्य कृते काश्चन समित्यः (कमिटीः) रचिताः आसन् यथा –
मुदलियार कमिशन, कोठारी कमिशन, डेलोस कमिशन, राष्ट्रियशिक्षापंच, ज्ञान आयोगश्च । ताभि समितिभिः समाधानाय सूचनाः अपि प्रदत्ताः आसन् किन्तु शिक्षणसमस्यानिराकरणन्तु नाभवत् । तदा स्वामिविवेकानंदस्य शिक्षण दृष्टिः अत्र अतीवावश्यकी विचारणीया च वर्तते ।

।। उपायाः ।।

चित्तस्यैकाग्रतानाशक्तिश्च ।
स्वामि विवेकानंद सूचित शिक्षणस्य समाधानाय चित्तस्यैकाग्रतायाः प्राधान्यमस्ति । चित्तस्य स्थिरतायै ध्यान योग सदृशाः पाठ्यक्रमाः भवेयुः शिक्षणे । एकाग्र चित्तमधिकं कार्य साधकम् । एकाग्रचित्तेन सूचना शिक्षामपि सश्चितं सहजतया भविष्यति । तथैव बालेषु सैव शक्ति द्वय विकासः।

ब्रह्मचर्यम् ।
ब्रह्मचर्य पालनेन अल्पसमये विद्याप्राप्तिः अविकारि चेतसः प्राप्तित्वात् यतो हि योगशास्त्रे ब्रह्मचर्य विषये प्रति पादितं वीर्यलाभः । वीर्यं नाम सामर्थ्यम् ।

श्रध्धा ।
सत्यश्रध्धायाः विभावना पुनः स्थापनाय आवश्यकता विद्यते । मानवः स्वात्मानं क्षुद्रं गणयति, किन्तु तस्मिन् अधिक श्रध्धा स्यात् तया मानवः सिंह सदृशो भूत्वा विश्वमानवः भवितुं अर्हति । वयं के ? वयं किं कर्तुं शक्नुमः ? अस्मत् कोऽपि कार्यं अशक्यं नास्ति । एतादृशः द्रढ निश्चयः अस्माकं पूर्वजैः अति विकासयात्रा कृता सः संदेशः सर्वेभ्यः दातव्यः ।

चारित्र्य निर्माणम् ।
मानवानां मानसिक स्थितिः एवं रुचिनां द्विगुणी करणं नाम चारित्र्यम् । स्वामिना चारित्र्य निर्माणाय सद् संस्काराणां सिञ्चनं कर्तव्यं एवं छात्रः भविष्यत् काले सुनागरिकः भवेत् तादृशः उपायः प्रदत्तः ।

गुरुकुल प्रथा ।
छात्रः गुरुकुले निवासं कृत्वा वा गुरोः गृहे निवासं कृत्वा पठनं कुर्यात् । तस्मात् कारणात् तस्मिन् छात्रे समूहभावनायाः विकासः भवेत् । तदैव सः "वसुदैव कुटुम्बकम्" इति भावना हृदि आगमिष्यति ।
स्त्रीणां विकासाय नारी शिक्षण संस्थायाः स्थापना ।

स्वकीय राष्ट्रस्य नारीणां योग्यसन्मानं कृत्वैव सर्वैः राष्ट्रैः विकासः कृतः । येन राष्ट्रेण नारीणां अवगणना कृता तस्य कदाऽपि प्रगतिः न भवति । इति हेतोः नारीणां कृते उच्च शिक्षणस्य आवश्यकता विद्यते । स्वामिनः अनुसारेण नारीणां कृते मठ स्थापनाय व्यवस्था कृता तस्मिन् मठे धर्मशास्त्रम्, व्याकरणम्, साहित्यशास्त्रम्, आङ्ग्लभाषां च पठनाय व्यवस्था कर्तव्या । स्त्रीणां कृते आजिविका भवेत् तदर्थमपि चिन्तनीयम् ।

अनेन प्रकारेण वयं राष्ट्रं विश्वगुरुं कर्तुं मिच्छामः तर्हि स्वामिना कथितं तद्वत् शिक्षा प्रणाल्याः अनुसरणं कर्तव्यं अस्ति । तदैव अवश्यं राष्ट्र जागरणं भविष्यति ।

श्रीसोमनाथ संस्कृतयुनिवर्सिटी-वेरावल द्वारा आयोजित अखिलभारतीय द्विदिवसीय संस्कृत संगोष्ठ्याः दिनांकः – 18-19 फरवरी 2013 प्रस्तुतं इदं शोधपत्रम् ।

।। संदर्भ साहित्यम् ।।

  1. 1. भारतीय शिक्षाः एवं तस्य समस्याः 1976 विनोदपुस्तक मण्डलः आग्रा । लेखकः डो. पी.डी.पाठकः ।
  2. 2. भारतीय शिक्षायाः विकासः एवं तस्य समस्याः 1971 प्रकाशन केन्द्रम्, न्युबिल्डींग, लखनऊ, लेखकः डो.सीताराम जयस्वाल ।
  3. 3. स्वामि विवेकानंदः, आध्यात्मिक संस्कृत्या भारतस्य उज्जागरणम् 2005 प्रकाशन केन्द्रम् राजकोटे स्वामि ध्रृवेशानंदः ।

डो. जोषी देवेन्द्रकुमारः नवनीतलालः । निवासस्थानम् – कर्णावतीनगरम् । डाह्यालालपार्क सोसायटी, भवन क्रमांकः 6, मोटेराग्रामः कर्णावती (गुजरात) भ्रमणभाष क्रमांकः – 9879831524 Email – devendrajoshi2009@gmail.com