।। प्रमाणिकेऽध्वरे रामः ।।


प्रमाणतः आगतम् इति प्रामाणिकम् । सांप्रते जीवने एतादृशस्य शिष्टाचारस्य स्थानम् मुखे एव दरिदृश्यते । परंन्तु तस्य जीवनान्वय समये कः पश्यन् अस्ति ? इति कृत्वा स्वच्छन्दमाचरन्ति जनाः ।

“वयं राष्ट्रे जागृयामः” इति गदनवेलायां तु वयं जोघुष्यामहे किन्तु यदा तस्य आविष्कारः कर्तव्यः तदा लज्जिताः भवामः ।

सांप्रतं विश्वस्मिन् विश्वे देशे च एतादृश्याः परिस्थेतेः निर्माणं भवन् वर्तते । सर्वेऽपि देशं भष्टाचाररहितं तथा देशस्य अर्थ व्यवस्था वर्धेत् एवं मुल्याधिक्यं न्यूनं भवेत् तादृशं इच्छन्ति । किन्तु सर्वकारेण कस्याश्चित् योजनायाः निर्माणं क्रियते एतदर्थं चेत् ते एव आन्दोलने सोऽत्साहं प्रवृत्ताः भवन्ति । भ्रष्टाचारेण प्रवृताः जनाः किम् आन्दोलने कार्यरता भूत्वा सर्वकारस्य योजनायाम् संयुक्ताः भवन्ति । नेतारः स्वकार्यं प्रामाणिकतया न कुर्वन्ति किन्तु वयं अस्माकं जीवने न चिन्तयामः । यदि वयमेव भ्रष्टाचारयुक्ताः न भवेम तर्हि अन्येषां का कथा ?

भूतभविष्यवर्तमाने देशे याः परिस्थितयः समागच्छन्ति तेषां कारणभूताः तु जनाः एव । देशस्यार्थिकसामाजिकपरिस्थित्योः निर्माणं कथं कर्तव्यम् तत्तु जनाश्रितः एव । किन्तु इदानीं तु भ्रष्टाचारिणः स्वरक्षाय अन्यान् प्रेरयन्तः आन्दोलयन्ति ।

एकस्मिन् नगरे सुशांतः एवं वैभवः नामके द्वे मित्रे आस्ताम् । उभयोः व्यापारः समानं एव पुस्तकस्य आपणम् आसीत । किन्तु सुशांतवैभवयोः व्यापारकरणस्य शैली भिन्ना एव ।

सुशांतः प्रामाणिकं व्यापारं करोति स्म । वैभवः सदासर्वदा आबालवृद्धजनेषु विभिन्नतया व्यपारं करोति स्म । अल्पसमये एव वैभवः वैभवी,धनवान च जातः । विशाले गृहे निवसनम् एवम् अधिकमुल्ययुक्ते याने भ्रमणं च समारभत । कापट्य धनस्य अत्यन्तम् उपयोगं कुर्वन् आसीत । अपरः सुशांतः गृहरहितः आसीत् । किन्तु यावानं व्यापारं करोति स्म तावद् प्रामाणिक-तया एव अकरोत परन्तु यः कश्चित् आगच्छति चेत् तं कथं वञ्जेयम् इति न चिन्तयन्ति स्म ।

एकस्मिन् दिने उभयोः आपणे सर्वकारस्य अधिकारीणः समागुः । सुशांतवैभवयोः सर्वं व्यवहारम् आद्राक्षुः । सुशांतस्तु प्रामाणिकतया स्वव्यपारः कुर्वन् आसीत् अतः सः मुक्तः । किन्तु वैभवस्य व्यवहारः भ्रष्टः आसीत् अतः एतादृशे व्यवहारे तस्य गृहयानमापणानि सर्वकारः स्वाधिने स्व्यकार्षीत् एवं तेन सः निर्धनोऽभूत् दण्डितोऽपि । समीपे विद्यमानस्य सुशांतापणस्य विषये सर्वेषाम् रुचिनिष्ठे अधिके अभवताम् । एतर्हि सुशांतस्य स्वीयं गृहमस्ति एवम् आपणद्वयम् अक्रीणत् तथा च सुखेन जीवति ।

अभिप्रायस्तु स एव यत् असत्येन जीवनं याप्यमानः मानवः कालान्तरे दण्डं प्राप्नोति एव तथा च प्रामाणिकोऽपि धनं प्राप्नोति एव । इतिहासेऽपि यः आजीवनपर्यन्तम् अप्रामाणिकतया व्यवहारयति तस्य मृत्युकालोऽपि दुःखकरमेव ।

कदाचित् सामान्यमानवस्य मनसि अपि तादृशं भवति यत् एते धनेपतयः सदासर्वदा दुष्व्यवहारं आचरन्ति एवं धनोपार्जनं कुर्वन्ति तथापि सुखिनः एव । किन्तु यदा कश्चन योजना विशेषः सर्वकारेण भवति तदा ते धनपतयः आन्दोलने प्रथमाः ।

अतः कष्टकरं चेदपि मुल्ययुक्ते प्रामाणिके पथि च जीवनं सर्वैः अस्माभिः मनुवंशयैः नृभिः यापनीयं इति तात्पर्यम् ।

दवे जैमिन जे. दर्शनम् संस्कृत महाविद्यालयः