।। अग्निपुराणानुगुणं गुणविमर्शः ।।


भगवता वेदव्यासेन शब्दार्थालङ्काराणां तथा उभयालङ्काराणां विवेचनानन्तरं षट्चत्वारिंशदधिकत्रिशततमेऽध्याये काव्यगुणविवेकत्वेन आख्यातानां गुणानां चर्चा चर्चिता ।
तदत्र प्रस्तूयते । पूर्ववदत्रापि अग्निरेव उपदेशकर्ता अतः प्रारम्भः "अग्निरूवाच" इत्यनेन विहितः ।
उक्तञ्च काव्यगुणानामुपादेयता समर्थनाय वेदव्यासेन -
अलङ्कृतमपि प्रीत्यै न काव्यं निर्गुणं भवेत् ।
वपुस्यललिते स्त्रीणां द्वारो भारायते परम् ।। [1]

अत्राऽयं भावः कथितः वेदव्यासेन असुन्दरशरीरयुक्तानां स्त्रीणां रत्नान्यपि भारभूताः भवन्ति ।
तद्वदेव माधुर्याभिगुणरहितं काव्यं अलङ्कृतत्वमपि आह्लादकत्वं न बिभर्ति ।
न वाच्यं गुणो दोषो भाव एव भविष्यति ।
गुणाः श्लेषादयो दोषाः गूढार्थाद्याः पृथकृताः ।। [2]

भरतमुनिमतानुगुणं गुणानां दोषाभावत्वेन वर्णनमनुचितं, तद्वदेव श्लेषादिगुणाः गूढार्थादयानां दोषाणां परस्पर सम्बन्धो नास्तीतिभावः ।
यः काव्ये महतीं छायामनुगृहणात्थसौ गुणः ।
संभवत्येव सामान्यो वैशेषिक इति बुधाः ।। [3]

यः काव्य महतीं छायाम् अनुगृह्णाति असौ सामान्यः वैशेषिक सम्भवति एषः गुणः द्विधा इत्यन्वयः ।
अर्थात् काव्यसाधनत्वेन काव्यनिर्माणप्रसङ्गो सः गुणपरपर्यायवाच्यः । सः गुणोऽपि सामान्यत्वेन विशेषत्वेन च विभक्तोऽस्ति । तत्र च –
सर्वसाधारणी भूतः सामान्य इति मन्यते ।
शब्दमर्थमुभौयुक्तः सामान्यो भवति त्रिधा ।। [4]

सर्मासामपि रचनायां गुणाः सर्वसाधारणरीत्या भवन्ति । अतः इमे गुणाः "सामान्याः" इत्यनेन व्यवहृताः भवन्ति । अस्य सामान्यगुणस्यापि शब्दगुणत्वेन अर्थगुणत्वेन शब्दार्थौभयगुणत्वेन व्यवहारः भवति । तत्र सामान्यगुणलक्षणनिरुपणं यथा –
शब्दमाश्रयते काव्यं शरीरं यस्स तद्गुणः ।
श्लेषोलालित्यगाम्भीर्ये सौकुमार्यमुदारता ।।

सत्येव यौगिकी चेति गुणाः शब्दस्य सप्तधा । अत्र भगवता बादरायणेन गुणलक्षणं पद्येऽस्मिन् प्रोक्यम् तद्भेनापि सः विवारितवान् । अर्थात् – यः काव्यस्य शरीररूपं यत् शब्दः वर्तते, तस्य शब्दस्य आश्रितो भवति सः शब्दगुणः कथ्यते । ते च गुणाः सप्त ।
1. श्लेषः ।
2. लालित्यम् ।
3. गाम्भीर्यम् ।
4. सुकुमारता ।
5. उदारता ।
6. सत्यम् ।
7. यौगिकी च ।

इमे सप्तशब्दगुणाः भगवता वेदव्यासेन वर्णिताः । तत्राद्यः श्लेषो यथा –
"सुश्लिष्टसंनिवेशत्वं शब्दानां श्लेष उच्यते"
अर्थात् शब्दानामतिगहनगुम्फनविधिः श्लेषशब्देन व्यवहृतो भवति ।

द्वितीयः लालित्यम् ।
गुणादेशादिना पूर्वं पदसंबद्धमक्षरम् ।
यत्र संधीयते नैव तल्लालित्यमुदाहृतम् ।।
अस्यायं भावः यत् – यस्मिन् सन्दर्भे व्याकरणनियमपुरस्सरं गुणादेशादिनां तत् पदसम्बद्धआनामक्षराणां भवितुं नार्हति, तदेव लालित्यगुणः ।

ततः गाम्भीर्यमिरुपणम् ।
विशिष्टलक्षणोल्लेखलेख्यमुत्तानशब्दकम् ।
गाम्भीर्यं कथयन्त्यार्यास्तदेवान्येषु शब्दताम् ।। [5]
यस्मिन् उत्तानादिकं सुगम्यं भवति परं वर्ण्यविषयः विशिष्टविभिन्नचिन्हेन समन्वितः भवति । तथा च विशिष्टतारहितानां शब्दानां गुम्फनविधिः यत्र विहिता भवेत् सः गाम्भीर्याख्यः गुणः भवेत् ।

अथ च सौकुमार्यगुणः ।
"अनिष्ठुराक्षरप्रायशब्दतासुकुमारता”
अर्थात् ऋजुवर्णानां यत्र विशिष्टरीत्या वर्णनं स्यात् मसृणशब्दनां यत्र आवलिः स्यात् तदेव सुकुमारगुणः ।

ततो औदार्यगुणः ।
"उत्तान पदतौदार्य युतं श्लाघ्यैर्विशेषणैः । "[6]
यत्र श्लाघनीयानां विशिष्ट विशेषणानां ओजसंयुक्त पदानां प्रयोगः विहितो भवति सः औदार्यगुणः ।
शब्दगुणनिरूपणानन्तरं भगवान् वेदव्यासः अर्थगुणान् विवृणोति ।
उच्यमानस्य शब्देन येन केनापि वस्तुनः ।
उत्कर्षमावहन्नर्थो गुण इत्यभिधीयते ।। [7]

कस्यचिदपि विषयस्य प्रस्तुतौ उत्कर्षनिवर्हणं भवति । अर्थचमत्कृतिश्च यत्र जायते तत्र अर्थगुणाः भवन्ति ।

।। अर्थगुणभेदाः ।।

"माधुर्यं संविधानञ्च कोमलत्वमुदारता" ।
प्रौढिसामयिकत्वञ्च तद्भेदाः षट् चकाशति ।
इमे षट् अर्थगुणाः भवन्ति । ते च –
1. माधुर्यम् ।
2. संविधानम् ।
3. कोमलता ।
4. उदारता ।
5. प्रौढिः ।
6. सामयिकत्वम् ।

तत्राद्यः माधुर्यम् ।
"क्रोधेर्ष्याकारगाम्भीर्यं माधुर्यं धैर्यगाहिता" ।
क्रोधेष्यादि भावानाम् अवस्थासमं यत्र गाम्भीर्यस्य यत्र अभावः दृश्यते परं धैर्यस्योद्भवः स्यात् तत्र माधुर्यार्थः गुणः भवति ।

ततः संविधानाख्यः गुणः ।
"संविधानं परिकरः स्यादपेक्षितसिद्धये" ।
यत्र इष्टसिद्धौ प्रकृष्टसिद्धौ वा अमानुष शक्तिप्रयोगः भवति, तत्रायं गुणः भवति ।

अथ च कोमलता ।
यत्काठिन्यादिनिर्मुक्तसन्निवेशविशिष्टता ।
तिरस्कृत्यैव मृदुता भाति कोमलतेति सा ।।
यः प्रयोगः सन्दर्भकाठिन्यैः मुक्तो भवति, यत्र च आयासपूर्वकं शब्दनियोजनं त्यक्तं भवति, तत्र च मृदुताया आधिक्यं दृश्यते सः कोमलताख्यः गुणः ।

उदारता ।
लक्ष्यते स्थुललक्षत्वप्रवृत्तेर्यत्र लक्षणम् ।
गुणस्य तदुदारत्वमाशयस्यास्तिसौष्ठवम् ।।
यस्यां रचनायां प्रमुखरुपेण स्थूललक्ष्यस्येव प्रकटनाय प्रवृत्तिः भवति एवं मूललक्ष्यस्य आशयः सौष्ठत्वं धारयति तत्रायं उदारताख्यः गुणः भवति ।

प्रौढोक्तिः ।
अभिप्रेतं प्रतिहतं निर्वाहस्योपपादिताः ।
युक्तयो हेतुगर्भिण्यः प्रोढाप्रोढिरूदाहृता ।। [8]

सामयिकताख्यः गुणः ।
स्वतन्त्रस्यान्यतन्त्रस्य वा ह्यान्तः समयोगतः ।
तत्र व्युत्पत्तिरर्थस्य या सामयिकतेति सा ।। [9]
यत्र स्वतन्त्ररुपेण वा परतन्त्ररुपेण अर्थानां बाह्यान्तरिकयोगात् व्युत्पत्तिः दृश्यते तत्रायं सामयिकताख्यः गुणः भवति । अथ च शब्दार्थोभयोपस्कर्तारः उभयगुणाः वक्ष्यन्ते –
शब्दार्थावुपकुर्वाणो नाम्नोभयगुणः स्मृतः ।
तस्य प्रसादः सौभाग्यं यथासंख्यं प्रशस्यता ।। [10]
पाको राग इति प्राज्ञैः षट् प्रपञ्चविपञ्चिताः ।
सुप्रसिद्धार्थपदता प्रसाद इति गीयते ।। [11]

शब्दं अर्थं च उपस्कर्तारः गुणाः उभयगुणाः कथ्यन्ते । तेषाञ्च षड्भेदास्सन्ति । ते च यथा -
1. प्रसादः ।
2. सौभाग्यम् ।
3. यथासंख्यम् ।
4. प्रशस्तिः ।
5. पाकः ।
6. रागः ।
अथ च भगवान् बादरायणः क्रमशः एकैकं लक्ष्यति । तत्रचादौ प्रसादाख्य उभयगुणः । तल्लक्षणं चोक्तम् –
सुप्रसिद्धार्थपदता प्रसाद इति गीयते ।
यत्र च प्रसिद्धानाम् अर्थानां सुसम्यक् पदावल्याः प्रयोगः दृश्यते । तत्र च अयं प्रसादाख्योभयगुणः ।
अथ च सौभाग्यं लक्ष्यति ग्रन्थकारः तद्यथा-
उत्कर्षवान्गुणः कश्चिद्यस्मिन्नुक्ते प्रतीयते ।
तत्सौभाग्यमुदारत्वं प्रवदन्ति मनीषिणः ।।20।। [12]

यस्मिन् उक्तिवैचित्र्ये उत्कर्षाख्यस्य गुणस्य समावेशः दृश्यते । तमेव सौभाग्यगुणं ख्यापयति ग्रन्थकारः । सौभाग्याख्योयं गुणः मनीषिभिः उदारता इत्यपरनाम्ना अपि व्यवह्रुतः ।
साम्प्रतं यथासंख्याख्यं गुणं वर्णयति ग्रन्थकारः तल्लक्षणं चोक्तं –
यथासंख्यमनुद्देशः सामान्यमतिदिश्यते ।
सामान्यरुपेणः यः गुणः प्राप्नोति सैव गुणः यथासंख्यगुणः भवति । उक्तं च मूले - सामान्यमतिदिश्यते ।
अथ च प्राशस्तिगुणः–
समये वर्णनीयस्य दारुणस्यापि वस्तुनः ।
अदारुणेन शब्देन प्राशस्त्यमुपवर्णनम् ।। [13]

यथा समयं वर्णनियस्य क्लिष्टविषयस्य वर्णनं यत्र कोमलशब्दैः प्रतिपाद्यते सः प्राशस्त्याख्यः उभय गुणः ।
अथ च पाकगुणः–
उच्चैः परिणतिः काऽपि पाक इत्यभिधीयते ।। [14]
यत्र वर्ण्यमानानां विषयाणां उत्तमरुपेण परिणतिः भवति तत्र अयं पाकख्योभयगुणः भवति । स च पाकगुणः भगवतावेदव्यासेन चतुर्धाविभक्तः । ते च चतुर्भेदाः यथा –
मृद्वीकानारिकेलान्बुपाकभेदाच्चतुर्विधः ।
आदावन्ते च सौरस्यं मृद्वीकापाक एव सः ।। [15]

1. मृत्तिकापाकः ।
2. नारिकेलपाकः ।
3. अम्बुपाकः ।
4. सामान्यपाकः ।

तत्र च आदौ अन्ते च सरसतायत्रोपपादिता तत्र मृद्वीकापाकः भवति ।
अथ च रागः–
काव्येच्छया विशेषो यः स राग इति गीयते ।
अभ्यासोपहितः कान्तिं सहजामपि वर्तते ।। [16]
यत्र काव्यपरम्परानुसारं सामान्यात् विशिष्टा प्रतिपत्तिः प्राप्यते तत्र रागाख्योभयगुणः । रागाख्योयं गुणः त्रिविधो प्रोक्तः वेदव्यासेन । तच्च त्रैविध्यं यथा
हारिद्रश्चैव कौसुम्भो नीलीरागश्च स त्रिधा । [17]
1. हारिद्ररागः ।
2. कौसुम्भरागः ।
3. नीलीरागः ।

।। उपसंहारः ।।

यथोक्तं भगवता वेदव्यासेन असुन्दरशरीरयुक्तानां स्त्रीणां रत्नान्यपि भारभूताः भवन्ति । तद्वदेव माधुर्याभिगुणरहितं काव्यं अलङ्कृतत्वमपि आह्लादकत्वं न बिभर्ति तेनैव कारणेनैव भगनवता वेदव्यासेन शब्दगुणानाम् अर्थगुणानाम् उभयगुणानाञ्च युक्तियुक्तं स्वरुपं प्रतिपादितम् । तत्र च समेषां सर्वेषां गुणानां हृदयाह्लादकता प्रतिपादिता तत्तु साक्षात् तद्गुणलक्षेनेव प्रतीयते । एवं रीत्या अग्निपुराणकारेण काव्यशास्त्रे प्राप्यमाणामाणनां काव्यशास्त्रीयाचार्याणां सर्वासम्मतानां गुणानां विवरणं प्रदत्तम् । तदत्र साररूपेण वर्णितम् ।

|| संदर्भ ||

  1. 1. अग्निपुराणम् अ.346, श्लो.01 ।
  2. 2. अग्निपुराणम् अ.346, श्लो.02 ।
  3. 3. अग्निपुराणम् अ.346, श्लो.03 ।
  4. 4. अग्निपुराणम् अ.346, श्लो.04 ।
  5. 5. अग्निपुराणम् अ.346, श्लो.08 ।
  6. 6. अग्निपुराणम् अ.346, श्लो.09 ।
  7. 7. अग्निपुराणम् अ.346, श्लो.11 ।
  8. 8. अग्निपुराणम् अ.346, श्लो.16 ।
  9. 9. अग्निपुराणम् अ.346, श्लो.17 ।
  10. 10. अग्निपुराणम् अ.346, श्लो.15 ।
  11. 11. अग्निपुराणम् अ.346, श्लो.16 ।
  12. 12. अग्निपुराणम् अ.346, श्लो.20 ।
  13. 13. अग्निपुराणम् अ.346, श्लो.21 ।
  14. 14. अग्निपुराणम् अ.346, श्लो. 22 ।
  15. 15. अग्निपुराणम् अ.346, श्लो.23 ।
  16. 16. अग्निपुराणम् अ.346, श्लो.24 ।
  17. 17. अग्निपुराणम् अ.346, श्लो.25 ।

हार्दिकः जी. जोषी, अध्यापनम् (साहित्यम्), सङ्केतः -9924345007, hard.g2ma@gmail.com