Included in the UGC-CARE list (Group B Sr. No 172)

शिवमहापुराणानुसारं सृष्टिप्रक्रिया : एकम् अध्ययनम्

ब्रह्मात: आरभ्य तृणपर्यंतं यत् किमपि दृश्यते तद् सर्वं शिवरुपम् अस्ति । अत्रोक्तं यत् यदा शिवस्य इच्छा भवति तदा संसारस्य रचना भवति । स: सर्वज्ञ: अस्ति, तं कोSपि ज्ञातुं न शक्नोति । शिव: संसारस्य रचना तथा करोति येन स: प्रविष्ट: सन् निर्लिप्त: भवति । स: ज्ञानस्वरुपि अस्ति । एतस्य कृते शिवमहापुराणे उदाहरणमस्ति यत् यथा जले सूर्यप्रकाश: दृश्यते किन्तु वस्तुत: स: तु प्रतिबिम्ब: भवति । जले केवलं प्रकाशप्रवेशस्य भ्रममात्रं भवति तथैव शिव: अपि सृष्टिकर्ता अस्तीति भासते ।[1] स: नित्य:, सत्-असत् तथा लोकानां सर्जक:, प्रधानपुरुषश्च शिव: अस्ति । येन इमा सृष्टि: निर्मिता ।[2]

हे शिव भवानेव संसारस्य स्रष्टा, पालनकर्ता च अस्ति । स्वानुसारं शिवशक्तया ऊर्णनाभस्य जालेन सद्रशिं क्रीडां करोति ।[3] अर्थात् यथा ऊर्णनाभ: स्वसृणिकया जालं रचयति पुनश्च तद् जालं स्वयमेव निर्गलति, तथैव शिवश्क्तया संसाररुपी तन्तव: उद्भवन्ति, तस्मिन् एव लयं प्राप्नुवन्ति ।

शिवमहापुराणस्य वायवीयसंहिताया: पूर्वभागे सृष्टिप्रक्रियाया: वर्णनं प्राप्यते ।[4] अर्थात् प्रधानत: बुद्धि: उत्पन्ना । महत्तत्वे विक्षेपकारणात् त्रिप्रकारक: अहंकार: उत्पन्न: भवति । अहंकारात् पच्चमहाभूतानि, पच्चतन्मात्रा:, पच्चज्ञानेन्द्रियाणि, पच्चकर्मेन्द्रियानि, मनश्च उत्पन्ना: ।

शैवदर्शने सृष्टिसंरचनाया: स्वीकार: कृत: अस्ति । तेषां मते शिव-श्क्ति-सदाशिव-ईश्वर-विद्या एतानि पच्चतत्वानि शुद्धसृष्टे: उच्यन्ते । सदाशिवतत्वम्, समुद्रे तस्य इच्छया उच्छालनात्मकस्पन्दनात् उत्पन्नस्य तत्वस्य नाम शिव: अस्ति। एतस्मिन् अव्यवस्थायां सूक्ष्मरुपेण प्रमेयताया: किच्चित् आभास: आरब्द: भवति ।

शिवमहापुराणस्य उमासंहितायाम् उत्पत्ति –स्थिति-लयानां कारणभूतानां ब्रह्मा-विष्णु-महेशानाम् उत्पत्ति: कथं जाता इति उल्लेख: प्राप्यते । शिवस्य दक्षिणभागात् सर्जनकर्ताब्रह्मण:, वामभागात् पालनकर्ताविष्णो:, हृदयात् संहारकशिवस्य च उत्पति: भवति । रुद्र: संपूर्णचराचरस्य जगत: संहारं करोति । अत्र रुद्र: महादेवनाम्ना ज्ञायते । यच्च प्रलयकाले समस्तचराचरं भुक्त्वा स्थिर: भवति ।[5] यदा यदा शिवेन सृष्टि: निर्मीयते तदा तदा ब्रह्मा सर्जक:, विष्णु: पालक:, महेश: संहारक: च भवन्ति । तस्मात् अधिकतर: कोऽपि नास्ति । [6]

शिवपुराणे सृष्टिप्रक्रिया प्रकारद्वयेन निरुपिता । ब्रह्मा यदा विविधा: सृष्टी: रचयितुम् इष्टवान् तदा स: प्रप्रथमं जलम् अरचयत् । तस्मिन् जले स: वीर्यम् अस्थापयत् तत् “नाश” इति उच्यते । वीर्यं सुवर्णेन सदृशं जातम् तदनु ब्रह्मा यज्ञम् आयोजितवान् । अण्डेऽस्मिन् हिरण्यगर्भ: एकं वर्षं उषितवान् । अण्डस्य भागद्वयम् अभवत्, एक: भाग: स्वर्गनाम्ना द्वितीय: च भूलोकनाम्ना ज्ञायते, यस्योपरी चतुर्दशभुवनानि सन्ति । द्वयो: मध्ये भगवता आकाशम् निर्मितम् । [7]

ब्रह्मणा सृष्टिरचनायै शिव-विष्णो: ध्यानं कृतम् । सर्वारम्भे जलं निर्मितम् , तस्मिन् अज्जल्या जलं स्थापितम् । एतस्मात् जलात् चतुर्विंशती-तत्त्व्युक्तम् अण्डम् उत्पनम् । तच्च जलस्वरुपे न द्र्ष्टम्, किन्तु अण्डेन विराटस्वरूपं स्वीकृतम् । एतेन शड़कित: ब्रह्मा द्वादशवर्षाणि विसणो: ध्यानं कृतवान् । तपस्याया: फलस्वरुपेण विश्णुं प्रकटीत: । ब्रह्मा तस्य स्तुतिं कुर्वन् वदति यत् “ हे विष्णो ! भवान् शिवकृपया उत्पन्न: अत: भवान् शिवशक्तया अण्डं चेतयतु । य: अण्ड: आरम्भे अचेतन: आसीत्, तस्मिन् ब्रह्मण: प्रार्थनया शिवस्य आज्ञया च विष्णु: अन्नतरुपाणि धृत्वा अण्डं चेतनं कृतवान् । स: पुरुष: सहस्रशीर्ष-नेत्र- पादयुक्त: अण्डे व्याप्त: जात: । पातालात् आरभ्य सप्तलोकपर्यन्तस्य स्वामी हरि: स्वयं विराटपुरुषस्वरुपेण सुशोभित: जात: । तदनु ब्रह्मा अष्टप्रकारका: सृष्टी: अरचतय् ।[8]

विष्णो: सह्स्रभागात् पितामहब्रह्मण: उत्पति: जाता । य: सध्योजातादीनाम् आत्मा तथा पृथ्वीतत्त्वस्य नायक: अस्ति । जगतसर्जकब्रह्मण: वामभागे सरस्वती-शक्ति: विराजयते । ब्रह्मण: चत्वारि मुखानि सन्ति । रजोगुणयुक्तो अस्तीति स: रक्तवर्णीय: अस्ति । हिरण्यगर्भ:, विराट:, पुरुष:, काल: च ब्रह्मण: व्यष्टिरुपा: सन्ति । तस्य कार्यं प्रकृतौ ये लीना: भवन्ति तेभ्य: भोगसाधनानि, स्त्री-पुत्र-धन-फलादि दत्त्वा ते संसारे योजनिया: इत्यस्ति । एषा एव सृष्टिप्रक्रिया उच्यते, यया प्राणिन: सुखं प्राप्नुवन्ति । [9]

रुद्रस्य सहस्रभागात विष्णु: उत्पन्न: । स: वामदेवचक्रस्य आत्मा तथा जलतत्वस्य नायक: अस्ति । तस्य वामभागे रमाशक्ति: अस्ति । स: सर्वप्राणीनां रक्षणं करोति । तस्य बाह्यं स्वरुपं पश्याम: चेत् स: चतुर्भुज:, कमलनयन:, श्यामवर्णीय:, शड़खि च अस्ति । विष्णो: वासुदेव-सड़कर्षण-अनिरुद्ध-प्रध्युम्न एतानि चत्वारि रुपाणि सन्ति । विष्णु: स्वकार्येण ब्रह्मणा उत्पादितान् फल –उपभोगकर्तुंन् कर्मभोगपर्यंतम् पालयति रक्षयति च । [10]

महेश्वरस्य सह्स्रभागात् रुद्र: उत्पन्न: । स: भयड़करवदन: तथा तेजयुक्त: अस्ति । रुद्रस्य वामभागे गौरीशक्ति: अस्ति । स: संहारक: प्रभु: अस्ति । शिव-हर-मुण्ड-भव-संहार इत्यादय: सुप्रसिद्धा: संहारकचक्ररुपा: सन्ति । जीवानां विश्रामस्थानाय कर्मपरिपाकाय च रुद्रस्य शस्त्राणि त्रिविधानि कल्पितानि।

नित्यानि – जीवसुषुप्तावस्थायां भवति स: नित्यसंहार: उअच्यते ।
नैमित्तिकानि- जीवस्य परब्रह्मणि लिनता नैमितिकसंहार: उच्यते ।
विलयानि – परब्रह्मणि लय: विलयसंहार: उच्यते। [11]

वायवीय-संहिताया: पूर्वभागे सृष्टिपालनप्रलयकर्तुत्वनामक-अध्याये सृष्ट्योत्पते: कथा प्राप्यते यत् प्रथमं शक्ति: उत्पन्ना सा शांत्यतीत उच्यते । तदनु शिवेन माया निर्मीता । मायात: अव्यक्तप्रकृति: जाता । शांतिपद: प्रथम: भवति तदनु विद्यापद: प्रतिष्ठापद: निवृति: च आगच्छन्ति । अयमीश्वरस्य सृष्टिक्रम: अस्ति । यदा ब्रह्मण: परार्धद्वयं समाप्तं भवति तदा प्रलय: भवति । तदा अव्यक्तात्मन: कार्यं समाप्य आत्मा स्थित: भवति । यदा आत्मस्थितजगत: प्रलय: भवति तदा प्रधान-पुरुषौ समानधर्मे स्थितौ: भवत: । अत: तमोगुण: सत्वगुणश्च परस्परं योजिता: भवन्ति । इत्थं द्वयो: भिन्नता न भवति । प्रलयकाले वायु: अपि जलेन सदृश: स्थिर: भवति ।

संसारस्य अज्ञात- अवस्थायाम् एकमात्रं परमतत्वं रात्रौ स्थितं भवति । रात्रि: समाप्ता भवति तदा महेश्वर: स्वमायया प्रधानपुरुषयो: प्रविश्य तौ चलायमानौ कुरुत: । अन्तरं सर्वेषाम् उत्पते: इच्छया शिवाज्ञया च सृष्टि: अव्य्क्ता भवति । अनुलोमक्रमेण सृष्टि: आरब्धा भवति, प्रतिलोमक्रमेण च संहार: भवति । [12]

महत: आरभ्य: विशेषपर्यंतं यद् किमपि उत्पध्यते तद् अव्यक्तस्य तथा जीवस्य कार्यं नास्ति । प्रकृति: अचेतना अस्ति । पुरुष: अज्ञानी अस्ति । अत: परमाणु-प्रधानादि सर्वं अचेतन अस्ति । अत: ज्ञानिभि: कारणरहितं शिवस्य कर्तृत्वं द्र्ष्टम् । संसारोऽयं कर्तु: अपेक्षां करोति, यतोऽहि कार्यमिदम् सावयम् अस्ति, अत: समर्थ: अनादि, अनन्त: महादेव: एव संसारस्य रचयिता अस्ति । स: एव रक्षक: विनाशक: च अस्ति ।

पादटीप

  1. शिवमहापुराण, कोटिरुद्रसंहिता - 43/4-7
  2. शिवमहापुराण, उमासंहिता - 29/5
  3. शिवमहापुराण, रुद्रसंहिता (सृष्टिखंड)- 40/4
  4. शिवमहापुराण, वायवीयसंहिता(पूर्व) अध्याय -10/13-16
  5. शिवमहापुराण, उमासंहिता -29/9-14
  6. शिवमहापुराण, उमासंहिता -29/9
  7. शिवमहापुराण, उमासंहिता -29/10-13
  8. शिवमहापुराण, रुद्रसंहिता (सृष्टिखंड)-15/23-28
  9. शिवमहापुराण, कैलाशसंहिता-15/30-35
  10. शिवमहापुराण, कैलाशसंहिता- 15/21-26
  11. शिवमहापुराण, कैलाशसंहिता-15-11-16
  12. शिवमहापुराण वायवीयसंहिता(पूर्व) अध्याय -9