कृष्णस्तुतिः
प्रणमामि परमपुरूषं परमानन्दरूपं परमदेवं
अनन्ताच्यूतापारानादिं निर्गुणगुणनियन्तां ।।१।।
व्रजजनरञ्जनः पातकभञ्जनः नन्दगोपकुमारः
अर्जुनभञ्जनः पुतनानाशनः कालीयबिषधरः हरिः ।।२।।
अघवककुवलयधेनुककेशी कंशनाशी ।
गोपीपीनपयोधरचञ्चलकरयुगशाली ।।३।।
गोकुलकुलप्रकाशकः गोपिकारञ्जनः ।
गोवर्धनधारी देव गोपालः गोविन्दः।।४।।
भुवननिरूपमरूपमनोहरः मधुरमूर्तिः वनमाली।
वृन्दावनविपिनविहारविशारदः शारदिन्दुप्रकाशः।।५।।
श्यामकलेवरः शोभनातिशयः आजानुलम्बितवनमाला।
नयनपङ्कजः आयतकमलवरः शोभते इन्दीवरद्वयम्।।६।।
विराजे स्मितहासः अरुणाधरचारू अभिनवरूपविभूतिः।
वेणुवाद्यविशारदः योगीध्यानपदः भक्तवत्सलः कल्पतरुः।। ७।।
स हि देवः मम कृष्णदेवः वन्दो नित्यं तं सदा।
कृताभिलासः तव चरणकमलं यथा भ्रमरमधुपानः।। ८।।
दीपांकर नेओग, जोरहाट,असम Email: dneog48@gmail.com